Abstract

शोधप्रबन्धोऽयं श्रीमद्भागवतमहापुराणस्य दशप्रमुखानां टीकाकाराणां (श्रीधरस्वामिनः भावार्थदीपिकादीनां) देश-काल-कृतीनां विस्तृतं, प्रामाणिकम्, ऐतिहासिकञ्च अध्ययनं कृतं वर्तते। भागवतं हि वेदान्तस्य परमगुह्यं तत्त्वम् अस्ति, यस्य यथार्थं रहस्यं केवलं प्राचीनानां टीकाकाराणां साहाय्येन एव अवगन्तुं शक्यते। अत्र प्रत्येकं टीकाकारस्य ऐतिहासिक-सांस्कृतिक-परिदृश्यैः सह तेषां साहित्यिक-दार्शनिक-योगदानानां सूक्ष्मा मीमांसा कृता अस्ति, येन भिन्नकालेषु, भिन्न-भिन्नसम्प्रदायेषु (यथा अद्वैत-द्वैत-अचिन्त्यभेदाभेद-पुष्टिमार्गादिषु) भागवतस्य दर्शनं कथं पल्लवितम् अस्तीति सुस्पष्टं भविष्यति। अपि चात्र भारतस्य विदेशस्य च विविधेषु ग्रन्थालयेषु उपलब्धानां भागवतटीकानां मातृकाणां (Manuscripts) एका तालिका अपि संयोजिता अस्ति। अनेन शोधप्रबन्धेन अनेकधा उपकारो भविष्यति:। प्रथमतः, शोधार्थिनः भागवतस्य टीकाविषये गवेषणायां अत्रत्या तालिका सहायिका स्यात् । द्वितीयतः, साहित्य-इतिहास-लेखकानां कृते अयं प्रबन्धः टीकाकाराणां यथार्थ-कालनिर्णये, ऐतिहासिक-भ्रान्तीनां निवारणे च सहायको भवेत्। तृतीयतः, ये सामान्याः जिज्ञासवः पाठकाः भागवतस्य विविध-सम्प्रदायानां दार्शनिकं मतभेदं, तेषां वैचारिकं समन्वयञ्च ज्ञातुम् उत्कण्ठिताः सन्ति, ते अस्मात् प्रबन्धात् एकस्मात् स्थानात् भिन्नपुस्तकानां नामानि प्राप्स्यन्ति।

View / Download Abstract PDF ↗
Keywords: सम्पादकः, प्रणेता, संकलकः, प्रकाशकः, अनुवादः।
Download Full Paper (1451.2 KB) ← Back to Archives
MANANAMEDINĪ
Applied
Volume: 1, Issue: 1
2026-09-24
14 downloads