Abstract
न्यायमते बुद्धिस्तु आत्मनः गुणपदार्थः। ज्ञानं बुद्धिश्च अस्मिन् दर्शने समार्थकौ। ज्ञानं वस्तु प्रकाशयति। प्रदीपः यथा स्वतन्त्ररूपेण अस्तित्वशीलं वस्तु प्रकाशयति, तथैव ज्ञानं स्वतन्त्रभावेन अस्तित्वयुक्तं पदार्थं प्रकाशयति। पदार्थरूपेण जगतः वस्तुसमुदायः ज्ञान-निरपेक्षः। ज्ञानप्रसंगे आत्मा ज्ञातृरूपेण, पदार्थः विषयरूपेण, मन-इन्द्रियादिश्च करणरूपेण चीयन्ते। न्यायदर्शने यथार्थानुभवस्य ज्ञाता प्रमाता, ज्ञानं प्रमा, ज्ञानस्य विषयः प्रमेय:, ज्ञानस्य करणं प्रमाणम् इति उच्यते। न्यायमते आत्मा एव ज्ञाता। ज्ञानम् आत्मन आगन्तुको गुणः। नौयायिका: यथार्थानुभवस्य प्रमाया: वा, चत्वार: प्रमाणानि स्वीकृतवन्त:। तानि यथा- प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दश्च। न्याय-वैशेषिकदर्शनं समानतन्त्रम्। फलत: विविधेषु ग्रन्थेषु न्याय-वैशेषिकदर्शनतत्त्वम् एकत्रैव आलोचितमस्ति। आचार्योदयनकालात् (10th century AD) उभयो: दर्शनतत्त्वयो: समन्वय: भवति। तर्कसंग्रहे आचार्यान्नंभट्टेन न्याय-वैशेषिकाभिमतेषु यत्र ऐक्यमत्यमस्ति तत्र कस्यचिदेकस्य मतस्य उल्लेखनं कृतमस्ति। प्रमाणभेदविषयेऽपि तस्य अन्यथा न भवति इति परिलक्ष्य ''तर्कसंग्रहे प्रमाणविचार:'' इत्यस्य शीर्षकस्य शोधपत्रमिदमत्र प्रस्तूयते।