Abstract

शोधपत्रेऽस्मिन् मान्यवरश्रीवेङ्कामात्यकृतसमवकारान्तर्गतस्य लक्ष्मीस्वयम्वराख्यस्य नाट्यस्य विशिष्टाध्ययनम्। शोधपत्रस्यामुष्यावगमनसौविध्यर्थं बिन्दुशः विषयाः विभज्य विमर्शिताः। तत्रादौ प्रणेतुर्जीवनपरिचयः उल्लिखितः। समनन्तरञ्च तदीयकृतयः प्रस्तुताः। ततश्च समवकारवैशिष्ट्यान्यालोचितानि। तदनन्तरन्नाटकस्थपात्राणां समीक्षणं कृतम्। अनन्तरञ्च नाटकस्य मुख्यविषयाधीनस्य रसचित्रणस्य परीक्षणं विहितम्। ततश्च नाटकस्थस्य "विच्छेदे सति प्रेम" इति भावस्य विश्लेषणमक्रियत। तदनन्तरं समग्रनाटकपरिशीलनदृष्टया नाटकस्य गुणाः दोषाश्च समालोचिताः। एवं शोधपत्रमिदं पर्यवसितम्। तत्राद्यभागे सामाजिकराजनैतिककर्मकुशलः कन्नडसंस्कृतसाहित्ये कृतभूरिपरिश्रमः राजकार्येषु सम्प्राप्तविविधोपाधिः वेङ्कामात्यः आसीदिति वर्ण्यते। कृतिरूपेण तेन कृतालङ्कारमणिदर्पणकामविलासभाणादि बहूनि संस्कृतनिष्ठशास्त्राणीति परं विवक्ष्यते। समवकाररीतिमनुसृत्योपस्थापिते लक्ष्मीस्वयम्वरे कथं पुराणादिशास्त्ररेभ्यः प्रसङ्गाः सङ्गृहीताः, मुख्यसरत्वेन वीररसः, समवकारस्य सर्वे नियमाश्च कथमिह पालिताः इति आलोचिम्। त्रिभिरङ्कैरिदन्नाटं प्रस्तूयते। प्रथमाङ्के रमामाधवयोः प्रेमविषयकद्वन्द्वः द्वितीये तयोर्वियोगः तृतीये च स्वयम्वरमुखेन विवाहः। वैनतेयनारदादिविविधदैवचरितैरिदन्नाटकं सुसङ्गठितम्। कथं सर्वाण्यपि चित्रितानि पात्राणि यथार्थतामलभन्त नाटके इत्यपि विचारितम्। वीररसपूर्णे नाटकेस्मिन् कथं क्वचिच्छृङ्गाररसः प्राधान्यमगादिति समालोच्य आधिक्येन विद्यन्ते अत्र प्रशंसनीयाः अंशाः इति विद्वज्जननितरां श्लाघ्येयं कृतिरिति विचारितम्। इति शिवम्।

View / Download Abstract PDF ↗
Keywords: समवकारः, रसः, विच्छेदः।
Download Full Paper (901.8 KB) ← Back to Archives
MANANAMEDINĪ
Applied
Volume: 1, Issue: 1
2026-09-24
11 downloads