Abstract
आयुर्वेदसाहित्ये स्वास्थ्यस्य मूलाधारः खलु अग्निः इति मन्यते। साधारणतः अग्निविषये विभिन्ना धारणा दृश्यते। यथा- भूतविशेषः, देवविशेषः, तेजोविशेषः चेति श्रौतप्रतिपाद्यरूपेण अग्नेः परिकल्पना अवलोक्यते समाजे। ‘अग्निः’ इति शब्दस्य अर्थः न केवलं भौतिकाग्निः, अपितु शरीरस्य जैविक-ऊर्जा वर्धयति, भोजनं पाचयति, पोषकतत्त्वं च अवशोष्यति। मानवशरीरे अग्नेः महत्वम् अनस्वीकार्यम्। सन्तुलिताग्निः स्वस्थजीवनस्य वीजो भवति। आयुर्वेदवाङ्मये अग्नेः संख्या बहवः मन्यते। यतोहि अस्य शरीरस्य प्रत्येकं परमाणोः मध्ये विद्यमानोऽस्ति अग्निः। अस्य कार्यस्य आधारहेतोः अग्निः तु त्रिविधः। यथा- जठराग्निः, भूताग्निः, धात्वाग्निः चेति। एते मिलित्वा शरीरस्य सन्तुलनहेतु कार्यं कुर्वन्ति। यथा- जठराग्नेः सन्तुलनं मनुवजीवने महत्वपूर्णमस्ति। अस्य अग्नेः सन्तुलनस्य कारणात् शरीरं सदा सुस्थं, ऊर्जावान्, रोगमुक्तं च भवति। अग्निरयं समरूपेण यदा कार्यं कुर्वति तदा जीवनप्रक्रिया सुष्ठं भवति, न चेत् शरीरे नैकदोषदूषितं सम्भवति। असन्तुलिताग्निः ‘आमः’(toxins) रूपेण परिवर्तनं भवति। यस्मात् कारणात् बहु रोगाः उपजायन्ते। यथा – अजीर्णः, वातविकारः, स्थौल्यता, विबन्धः, चर्मरोगः, सन्धिशूलः चेति। एतेषां रोगाणां निवारणाय सन्तुलितमाहारं, नियमित दिनचर्याः, योग-प्राणायां चेति अनिवार्यमस्ति। एतस्मात् कारणात् अयुर्वेदशास्त्रे बहु नियमाः दृश्यन्ते। अस्य शोधपत्रस्य माध्यमेन शास्त्रसम्मतम् उपदेशादि प्रस्तोतुं कामयते मे मनः।